Shukla Yajurveda Vajasaneyi Madhyandina Samhita

१ प्रथमोध्यायः

इ᳘षेत्त्वो᳘र्ज्जेत्त्वा॑व्व᳘यव॑स्त्थदे᳘वोवः᳢॑सवि᳘ताप्प्रार्प्प॑यतु᳘श्श्रेष्ट्ठ॑तमाय᳘कर्म्म॑ण᳘ऽआप्प्या॑यद्ध्वमग्घ्न्या᳘ऽइन्द्रा॑यभा᳘गम्प्र᳘जाव॑तीरनमी᳘वाऽअ॑य᳘क्ष्मामाव॑स्ते᳘नऽई॑शत᳘माघश॑ᳮसोद्ध्रु᳘वाऽअ᳘स्मिन्न्गोप॑तौस्त्यातब᳘ह्व्वीर्ॺ्ॺज॑मानस्यप᳘शून्न्पा॑हि ॥१॥

व्वसोः᳥॑प᳘वित्त्र॑मसि᳘द्द्यौर॑सिपृथि᳘व्व्य᳖सिमात᳘रिश्श्व॑नोघ᳘र्म्मो᳖सिव्वि᳘श्श्वधा॑ऽअसि ॥ प᳘र᳘मेण᳘धाम्म्ना᳘दृᳮह॑स्व᳘माह्व्वा᳘र्म्माते॑ॺ᳘ज्ञप॑तिर्ह्व्वार्षीत् ॥२॥

व्वसोः᳥॑प᳘वित्त्र॑मसिश᳘तधा॑रं᳘व्वसोः᳥॑प᳘वित्त्र॑मसिस᳘हस्र॑धारम् ॥ दे᳘वस्त्वा॑सवि᳘तापु॑नातु᳘व्वसोः᳥॑प᳘वित्त्रे॑णश᳘तधा॑रेणसु᳘प्प्वा᳕काम॑धुक्षः᳥ ॥३॥

साव्वि᳘श्श्वायुः᳥᳘साव्वि᳘श्श्वक॑र्म्मा᳘साव्वि᳘श्श्वधा॑याः᳥ ॥ इन्द्र॑स्यत्त्वाभा᳘गᳮसोमे᳘नात॑नच्च्मि᳘व्विष्ण्णो॑ह᳘व्व्यᳮर॑क्ष ॥४॥

अग्ग्ने॑व्व्रतपतेव्व्र᳘तञ्च॑तिष्ष्यामि᳘तच्छ॑केय᳘न्तन्न्मे॑राद्ध्यताम् ॥ इ᳘दम᳘हमनृ॑तात्त्स᳘त्त्यमुपै॑मि ॥५॥

कस्त्त्वा॑ॺुनक्क्ति᳘सत्त्वा॑ॺुनक्क्ति᳘कस्म्मै॑त्त्वाॺुनक्क्ति᳘तस्म्मै॑त्त्वाॺुनक्क्ति ॥ कर्म्मणेवां᳘व्वेषा॑यवाम् ॥६॥

प्रत्त्यु॑ष्ट्ट᳘ᳮ᳘रक्षः᳥᳘प्प्रत्त्यु॑ष्ट्टा᳘ऽरा॑तयो᳘निष्ट्ट॑प्प्त᳘ᳮ᳘रक्षो᳘निष्ट्ट॑प्प्ता᳘ऽअरा॑तयः᳥ ॥ उ᳘र्व्व᳕न्तरि॑क्ष᳘मन्न्वे॑मि ॥७॥

धूर॑सि᳘धूर्व्व᳘धूर्व्व॑न्त᳘न्धूर्व्व᳘तँॺ्ॺो᳘स्म्मान्धूर्व्व॑ति᳘तन्धू॑र्व्व᳘ॺंव्व᳘यन्धूर्व्वा॑मः᳥ ॥ दे᳘वाना॑मसि᳘व्वह्न्नि॑तम᳘ᳮ᳘सस्न्नि॑तम᳘म्पप्प्रि॑तम᳘ञ्जुष्ट्ट॑तमन्देव᳘हूत॑मम् ॥८॥

अह्रु॑तमसिहवि᳘र्द्धान᳘न्दृᳮह॑स्व᳘माह्व्वा᳘र्म्माते॑ॺज्ञप॑तिर्ह्व्वार्षीत् ॥ व्विष्ण्णु॑स्त्वाक्क्रमतामु᳘रुव्वाता᳘याप॑हत᳘ᳮ᳘रक्षोॺच्छ॑न्ता᳘म्प्रञ्च॑ ॥९॥

दे᳘वस्य॑त्त्वासवि᳘तुः᳣प्प्र॑स᳘वे᳕श्श्विनो॑र्ब्बा᳘हुब्भ्या᳘ म्पू᳘ष्ण्णोहस्ता॑ब्भ्याम् । अ᳘ग्ग्नये᳘जुष्ट्ट॑ङ्गृह्ण्णाम्म्य᳘ग्ग्नीषोमा॑ब्भ्याञ्जुष्ट्ट॑ङ्गृह्ण्णामि ॥१०॥

भूताय॑त्त्वा᳘नारा॑तये᳘स्व᳖रभि᳘विक्ख्ये॑ष᳘न्दृᳯह॑न्ता᳘न्दुर्ॺ्ॺाः᳥॑पृथि᳘व्व्यामु᳘र्व्व᳕न्तरि॑क्ष᳘मन्न्वे॑मिपृथि᳘व्व्यास्त्वा᳘नाभौ॑सादया᳘म्म्यदि॑त्त्याऽउ᳘पस्त्थेग्ग्ने॑ह᳘व्व्यᳯर॑क्ष॥११॥

प᳘वित्त्रे॑स्त्थोव्वैष्ण्ण᳘व्व्यौ᳖सवि᳘तुर्व्वः᳢॑प्प्रस᳘वऽउत्त्पु॑ना᳘म्म्यच्छि॑द्द्रेणप᳘वित्त्रे॑ण᳘सूर्ॺ्ॺ॑स्यर᳘श्म्मिभिः᳢॑ ॥ देवी॑रापोऽअग्ग्रेगुवोऽअग्ग्रेपु᳘वोग्ग्र॑ऽइ᳘मम᳘द्द्यॺ᳘ज्ञन्न॑य᳘ताग्ग्रे॑ॺ᳘ज्ञप॑तिᳯसु᳘धातुँ॑ॺ्ॺ᳘ज्ञप॑तिन्देव᳘युव॑म् ॥१२॥